|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.89. अध्यायः 089
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति राजनीतिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-89-0x(5574)(68266)
वनस्पतीभक्ष्यफलान्न च्छिन्द्युर्विषये तव।
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः॥ 12-89-1(68267)
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः।
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन॥ 12-89-2(68268)
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः।
परिकल्यास्य वृत्तिः स्यात्सदारस्य नराधिप॥ 12-89-3(68269)
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि।
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति॥ 12-89-4(68270)
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम्।
पूर्वं परोक्षं वक्तव्यमेतत्कौन्तेय शाश्वतम्॥ 12-89-5(68271)
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्।
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या च तदा चरेत्॥ 12-89-6(68272)
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्।
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत॥ 12-89-7(68273)
तस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः।
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत्॥ 12-89-8(68274)
शत्रूञ्जय प्रजा रक्ष यजस्व क्रतुभिर्नृप।
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन॥ 12-89-9(68275)
संरक्ष्यान्रक्षते राजा स राजा राजसत्तमः।
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन॥ 12-89-10(68276)
सदैव राज्ञा योद्धव्यं सर्वलोकाद्युधिष्ठिर।
तस्याद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः॥ 12-89-11(68277)
आन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरान्तरान्।
परान्परेभ्यः स्वान्खेभ्यः सर्वान्पालय नित्यदा॥ 12-89-12(68278)
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम्।
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः॥ 12-89-13(68279)
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम्।
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत्॥ 12-89-14(68280)
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः।
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्॥ 12-89-15(68281)
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः।
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे वशः॥ 12-89-16(68282)
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम्।
राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः॥ 12-89-17(68283)
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः।
ये च त्वाऽभिप्रशंसेयुर्निन्देयुरथवा पुनः॥ 12-89-18(68284)
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर।
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत॥ 12-89-19(68285)
युधिष्ठिर उवाच। 12-89-20x(5575)
तुल्यबाहुबलानां च तुल्यानां च गुणैरपि।
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान्॥ 12-89-20(68286)
भीष्म उवाच। 12-89-21x(5576)
यच्चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा।
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव॥ 12-89-21(68287)
एतेभ्यश्चाप्रमत्तः स्यात्सदा शत्रोर्युधिष्ठिर।
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः॥ 12-89-22(68288)
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः।
क्रीणन्तो बहुनाऽल्पेन कान्तारकृतविश्रमाः॥ 12-89-23(68289)
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः।
ये बहन्ति धुरं राज्ञां ते भरन्तीतरानपि॥ 12-89-24(68290)
`आलस्येन हृतः पादः पादः पाषण़्डमाश्रितः।
राजानं सेवते पादः पादः कृषिमुपाश्रितः॥ 12-89-25(68291)
एकपादं त्रयः पादा भक्षयन्ति दिनेदिने।
तस्मात्सर्वप्रयत्नेन पादं रक्ष युधिष्ठिर॥ ' 12-89-26(68292)
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा।
मानुषोरगरक्षांसि वयांसि पशवस्तथा॥ 12-89-27(68293)
एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत।
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पा--व॥ ॥ 12-89-28(68294)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोननवतितमोऽध्यायः॥ 89॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-89-1 मूलफलं ब्राह्मणानां स्वमिति धर्ममाहुरतो न च्छिन्द्युः॥ 12-89-3 त्यागं राष्ट्रस्य॥ 12-89-6 भोगार्थी चेद्राष्ट्रं त्यजति तदा भोगैरपि निमन्त्र्यः। अवृत्त्या चेतदावृत्त्यापि निमन्त्र्य इत्याह आहुरिति॥ 12-89-7 ऊर्ध्वं स्वर्गम्॥ 12-89-11 लोकात् लोकहितार्थं योद्धव्यम्। भयुध्यांखारानिति चार्थः॥ 12-89-13 विदुषो विद्वांसः॥ 12-89-14 राज्ञो व्यसगीत्येति शेषः॥ 12-89-19 सुपरिणीतान् सत्कृतान् 12-89-21 अलवानेप दुर्बलं भुज्जीत तुल्यात्तु आत्मानं रक्षेच्छलेन च तं भुज्जीतेत्युत्तरमाह यदि आदिना॥ 12-89-22 भारुण्डः गृध्रः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|